नवग्रहाष्टोत्तरशतनामावलिः।।
🍁ॐ भानवे नमः । हंसाय । भास्कराय । सूर्याय । सूराय । तमोहराय । रथिने । विश्वधृते । अव्याप्त्रे । हराय । वेदमयाय । विभवे । सुधांशवे । शुभ्रांशवे ।
🍁चन्द्राय । अब्जनेत्रसमुद्भवाय। ताराधिपाय । रोहिणीशाय । शम्भुमूर्तिकृतालयाय।औषधीड्याय नमः ॥२०॥
ॐ औषधीपतये नमः । ईश्वरधराय । सुधानिधये । सकलाह्लादनकराय ।
🍁भौमाय । भूमिसुताय । भूतमान्याय।
(भूतमान्यसमुभवाय) । समुद्भवाय । आर्याय । अग्निकृते । रोहिताङ्गकाय। रक्तवस्त्रधराय । शुचये । मङ्गलाय । अङ्गारकाय । रक्तमालिने। मायाविशारदाय ।
🍁बुधाय । तारासुताय । सौम्याय नमः ॥ ४०॥
ॐ रोहिणीगर्भसम्भूताय नमः । चन्द्रात्मजाय । सोमवंशकराय । श्रुतिविशारदाय । सत्यसन्धाय । सत्यसिन्धवे । विधुसुताय । विबुधाय । विभवे । वाक्कृते । ब्राह्मणाय । (ब्रह्मण्याय) ब्रह्मणे । धिषणाय । शुभवेषधराय । गीष्पतये ।
🍁गुरवे । इन्द्रपुरोहिताय । जीवाय । निर्जरपूजिताय । पीताम्बरालङ्कृताय नमः ॥ ६०॥
🍁ॐ भृगवे नमः । भार्गवसम्भूताय । निशाचरगुरवे । कवये।भृत्यखेदहराय । भृगुसुताय । वर्षकृते । दीनराज्यदाय। शुक्राय । शुक्रस्वरूपाय । राज्यदाय । लयकृते । कोणाय ।
🍁शनैश्चराय । मन्दाय। छायाहृदयनन्दनाय । मार्ताण्डजाय। पङ्गवे । भानुतनूद्भवाय । यमानुजाय नमः ॥८०॥
ॐ अदीप्यकृते नमः । नीलाय । सूर्यवंशजाय । निर्माणदेहाय ।
🍁 राहवे । स्वर्भानवे। आदित्यचन्द्रद्वेषिणे । भुजङ्गमाय । सिंहिदेशाय । गुणवते। रात्रिपतिपीडिताय । अहिराजे । शिरोहीनाय । विषधराय।महाकायाय । महाभूताय । ब्रह्मणे । ब्रह्मसम्भूताय। रविकृते । राहुरूपधृते नमः ॥१००॥
🍁ॐ केतवे नमः । केतुस्वरूपाय। खेचराय । कग्रुतालयाय । ब्रह्मविदे। ब्रह्मपुत्राय । कुमारकाय । ब्राह्मणप्रीताय नमः ॥ १०८॥
।। इति नवग्रहाष्टोत्तर शतनामावलिः समाप्ता।।~b````~~~````~~~d~~~```~~~```v